नमस्ते जी !!! प्रत्येक ग्राहक के लिये अब इंडिया पोस्ट से पूर्णत: शिपिंग फ्री,ऋषि मिशन ट्रस्ट के पंजिकृत सदस्यता अभियान में शामिल हो कर ट्रस्ट द्वारा चलाई जा रही अनेक गतिविधियों का लाभ उठा सकते हैं। जिसमें 11 पुस्तक सेट (महर्षि दयानंद सरस्वती कृत), सदस्यता कार्ड, महर्षि चित्र, केलेंडर, 10% एक्स्ट्रा डिस्काउंट, अन्य अनेक लाभ विशेष सूचना अब आपको कोरियर से भी पुस्तकें भेजी जाती है जो मात्र 1,7 दिन में पुरे भारत में डिलेवरी हो जाती है, इस सुविधा का खर्च आपको अतिरिक्त देना होता है

Rishi Mission is a Non Profitable Organization In India

Cart

Your Cart is Empty

Back To Shop

Category: सत्यानन्द वेदवागीश

Showing all 3 results

  • अस्य पाणिनीयशब्दानुशासनस्य प्रथमं संस्करणं षोडशवर्षेभ्यः प्राक् प्रकाशितमासीत् । अस्योपादेयतां वीक्ष्याऽधुना द्वितीयसंस्करणं प्रकाश्यते । अत्र पूर्वसंस्करणादधिकादि कानिचिद् वैशिष्ट्यानि सन्ति । प्राचीनव्याकरणस्याऽर्थादष्टाध्यायीक्रमेण यत्राऽध्ययनाध्यापनं भवति, तेषु रेवलीस्थ-पाणिनि-महाविद्यालयः, वाराणसीस्थ – जिज्ञासुस्मारक पाणिनि कन्यामहाविद्यालयः, मेरठ- समीपस्थप्रभाताश्रम – गुरुकुलम् आदीनि संस्थानानि प्रमुखानि सन्ति । एषु संस्थानेषु प्रायः । रामलालकपूरट्रस्ट द्वारा प्रकाशितोऽष्टाध्यायीसूत्रपाठः प्रचलति । तत्रत्यछात्राणां सौविध्यमभिलक्ष्याऽस्माभिः संस्करणेऽस्मिन् प्रतिपृष्ठपार्श्वं तेनेव क्रमेण तदनुसारिण्या सूत्रसंख्यया सूत्राणि मुद्राप्यन्ते । मुद्रण- प्रकाशनादिकाठिन्याद् धातुपाठस्तु तादृशो नैव मुद्राप्यते। पूर्वसंस्करणवद् धातुपाठः प्रकाश्यते । . 3

    परिशिष्टभागे पूर्वं चत्वारि ह्येव परिशिष्टानि प्राकाश्यन्त । अधुनादश परिशिष्टानि दीयन्ते। तेषां चत्वारि तु पूर्वतनान्येव सन्ति । तान्यतिरिच्य, यानि परिशिष्टान्यत्र दीयन्ते तानीत्थं सन्ति । अष्टाध्यायीस्थप्रत्ययानां वर्णानुक्रमेण सूची प्रदीयते । येन प्रत्ययानां विमर्शे तेषां तुलनाकरणे च सौकर्यं संवत्स्यति । उणादिकोषस्थप्रत्ययानामपि वर्णानुक्रमणी दीयते। धातूनाम् अन्त्यवर्णानुक्रमण्यपि सन्निवेशिताऽत्र । अनेन छन्दोनिर्माणेऽलङ्कारादिप्रयोगे च सौविधी भविष्यति। तत्पश्चाच्च धातूनाम् अर्थानुसारी सङ्ग्रहोऽपि प्रदीयते । गद्यपद्यादिनिर्माणे साहित्यसमीक्षणप्रक्रमादिषु चैष महानुपकारी संवत्स्यते । अष्टाध्यायीस्थ-प्रत्ययवर्णानुक्रमण्यां तृतीयचतुर्थपञ्च माध्यायानां सूत्रसंख्या काशिकानुसारिणी वर्त्तते । वार्त्तिकस्थप्रत्ययानुक्रमण्या अपि सङ्ग्रहकरणादेव सा संख्योररीकृता । धातूनां वर्णानुक्रमणी पूर्ववदेव दत्ता, किन्तु तत्र धात्वर्था अपि सहैव टड्यन्ते। येषां धातूनामनेकेऽर्थाः सन्ति, तेषामर्थविलेखने आद्यक्षराणामेव सूचना दीयते । तदनु, अष्टाध्यायी-सूत्राणां वर्णानुक्रमणी, सर्वान्ते चोणादि-सूत्र-वर्णानुक्रमणी योज्यते ।

    प्रायः शतमितपृष्ठानां परिवर्धनात् लैजरटंकण मुद्रण-कर्गलादीनां सम्प्रति महार्घत्वाच्चास्य संस्करणस्य वस्नं निश्चयतोऽधिकं प्रतिभाति । किन्तु संस्करणस्यास्य वैशिष्ट्यानां पुरो मूल्यवृद्धिः सह्या भविष्यतीत्याशासे ।

    निवेदकः विद्वज्जनचरणरजोजुट् सत्यानन्दवेदवागीशः

    Sold By : The Rishi Mission Trust
    Add to cart

Cart

Your Cart is Empty

Back To Shop