अब साहित्य पर 10 से 40% की छूट उपलब्ध है,फ्री शिपिंग 2000/- की खरीद पर केवल पंजीकृत सदस्यों के लिए उपलब्ध, ऋषि दयानंद सरस्वती कृत 11 पुस्तकें निशुल्क प्राप्त करने के लिए 9314394421 पर सम्पर्क करें
 

Rishi Mission is a Non Profitable Organization In India

Cart

Your Cart is Empty

Back To Shop

Rishi Mission is a Non Profitable Organization In India

Cart

Your Cart is Empty

Back To Shop
Sale

पाणिनीयशब्दानुशासनम Paniniyashabdanushasanm

Rs.170.00

अस्य पाणिनीयशब्दानुशासनस्य प्रथमं संस्करणं षोडशवर्षेभ्यः प्राक् प्रकाशितमासीत् । अस्योपादेयतां वीक्ष्याऽधुना द्वितीयसंस्करणं प्रकाश्यते । अत्र पूर्वसंस्करणादधिकादि कानिचिद् वैशिष्ट्यानि सन्ति । प्राचीनव्याकरणस्याऽर्थादष्टाध्यायीक्रमेण यत्राऽध्ययनाध्यापनं भवति, तेषु रेवलीस्थ-पाणिनि-महाविद्यालयः, वाराणसीस्थ – जिज्ञासुस्मारक पाणिनि कन्यामहाविद्यालयः, मेरठ- समीपस्थप्रभाताश्रम – गुरुकुलम् आदीनि संस्थानानि प्रमुखानि सन्ति । एषु संस्थानेषु प्रायः । रामलालकपूरट्रस्ट द्वारा प्रकाशितोऽष्टाध्यायीसूत्रपाठः प्रचलति । तत्रत्यछात्राणां सौविध्यमभिलक्ष्याऽस्माभिः संस्करणेऽस्मिन् प्रतिपृष्ठपार्श्वं तेनेव क्रमेण तदनुसारिण्या सूत्रसंख्यया सूत्राणि मुद्राप्यन्ते । मुद्रण- प्रकाशनादिकाठिन्याद् धातुपाठस्तु तादृशो नैव मुद्राप्यते। पूर्वसंस्करणवद् धातुपाठः प्रकाश्यते । . 3

परिशिष्टभागे पूर्वं चत्वारि ह्येव परिशिष्टानि प्राकाश्यन्त । अधुनादश परिशिष्टानि दीयन्ते। तेषां चत्वारि तु पूर्वतनान्येव सन्ति । तान्यतिरिच्य, यानि परिशिष्टान्यत्र दीयन्ते तानीत्थं सन्ति । अष्टाध्यायीस्थप्रत्ययानां वर्णानुक्रमेण सूची प्रदीयते । येन प्रत्ययानां विमर्शे तेषां तुलनाकरणे च सौकर्यं संवत्स्यति । उणादिकोषस्थप्रत्ययानामपि वर्णानुक्रमणी दीयते। धातूनाम् अन्त्यवर्णानुक्रमण्यपि सन्निवेशिताऽत्र । अनेन छन्दोनिर्माणेऽलङ्कारादिप्रयोगे च सौविधी भविष्यति। तत्पश्चाच्च धातूनाम् अर्थानुसारी सङ्ग्रहोऽपि प्रदीयते । गद्यपद्यादिनिर्माणे साहित्यसमीक्षणप्रक्रमादिषु चैष महानुपकारी संवत्स्यते । अष्टाध्यायीस्थ-प्रत्ययवर्णानुक्रमण्यां तृतीयचतुर्थपञ्च माध्यायानां सूत्रसंख्या काशिकानुसारिणी वर्त्तते । वार्त्तिकस्थप्रत्ययानुक्रमण्या अपि सङ्ग्रहकरणादेव सा संख्योररीकृता । धातूनां वर्णानुक्रमणी पूर्ववदेव दत्ता, किन्तु तत्र धात्वर्था अपि सहैव टड्यन्ते। येषां धातूनामनेकेऽर्थाः सन्ति, तेषामर्थविलेखने आद्यक्षराणामेव सूचना दीयते । तदनु, अष्टाध्यायी-सूत्राणां वर्णानुक्रमणी, सर्वान्ते चोणादि-सूत्र-वर्णानुक्रमणी योज्यते ।

प्रायः शतमितपृष्ठानां परिवर्धनात् लैजरटंकण मुद्रण-कर्गलादीनां सम्प्रति महार्घत्वाच्चास्य संस्करणस्य वस्नं निश्चयतोऽधिकं प्रतिभाति । किन्तु संस्करणस्यास्य वैशिष्ट्यानां पुरो मूल्यवृद्धिः सह्या भविष्यतीत्याशासे ।

निवेदकः विद्वज्जनचरणरजोजुट् सत्यानन्दवेदवागीशः

(In Stock)

Compare
Weight 500 g

Reviews

There are no reviews yet.

Be the first to review “पाणिनीयशब्दानुशासनम Paniniyashabdanushasanm”

Your email address will not be published. Required fields are marked *

X

Cart

Your Cart is Empty

Back To Shop