Paniniyam Vaidik vyakaranam पाणिनीयम् वैदिक व्याकरणम्
Rs.265.50
भगवता पाणिनिना स्वीयेऽष्टाध्यायीनाम्रि ग्रन्थे यः पन्थाः प्रकाशितः, तत्र एकस्मिन् शब्दे सिद्धे सति तत्सरूपाः सर्वे शब्दा: गणितीयविधिना स्वयमेव सिद्धिं लभन्ते, साधुत्वं च प्राप्नुवन्ति । स च प्रकाशित: पन्थाः सिद्धान्तकौमुद्यादिभिः प्रक्रियाग्रन्थैर्घनान्धकारे निक्षिप्तः । अतोऽहं सिद्धान्तकौमुद्या घनान्धकारेनिक्षिप्तं वैदिकप्रकरणं पाणिनीयविज्ञानानुसारेण प्रकाश्य वैदिकशब्दानां सिध्यर्थं तादृशं कमप्युपायं ब्रवीमि येन लौकिकैः शब्दैः सहैव वैदिका अपि शब्दा यत्नं विना स्वयमेव सिध्येयुः । प्रातिशाख्यादयो ग्रन्था वस्तुतो व्याकरणग्रन्था न सन्ति । तत्र वर्णस्वरमात्रासन्धिच्छन्दः प्रभृतयः सन्ति विषयाः । एषां ज्ञानाभावे वेदमन्त्राणामुच्चारणमपि दुरूहं भवति । अतः प्रातिशाख्यमाश्रित्यैव ध्वनिविषयकं विशिष्टं वेदाध्ययनं सुरक्षितं भवति । निरुक्तग्रन्थत्वर्थज्ञानाय प्रभवति, किन्तु प्रकृतिप्रत्ययविभागपूर्वकं शब्दानां व्युत्पादनाय तु व्याकरणमेव शरणम्। पाणिनेः प्रागपि बहुभिर्महर्षिभिर्बहूनि व्याकरणतन्त्राणि प्रोक्तानि, किन्तु तेषु व्याकरणतन्त्रेषु न विद्यते वेदाङ्गत्वं, यतस्तत्र नास्ति कश्चनोपायो वैदिकशब्दानां सिद्धयर्थम् । प्रातिशाख्यादिभिः केचन वैदिका एव शब्दा अन्वाख्यायन्ते, कातन्त्रादिभिश्च लौकिका एव । अतो लौकिकवैदिकोभयशब्दानां साधुत्वज्ञानहेतुत्वात् परमवैज्ञानिकत्वाच्च पाणिनीयव्याकरणमेवाद्यत्वे सर्वमान्यं वरीवर्ति । यथा भगवति भास्कर उदिते न प्रतिभान्ति सन्तोऽपि चन्द्रतारकादयस्तथैव शब्दाकाशेऽवतीर्णे भगवति पाणिनौ तानि सन्त्यप्यसन्तीव जातानि । महाभाष्यसिद्धान्तकौमुदीप्रभृतयो ग्रन्था अप्यष्टाध्यायीमेवाश्रित्य प्रणीताः सन्ति ।
(In Stock)
Reviews
There are no reviews yet.