ऋषि मिशन न्यास परिवार में आपका हार्दिक स्वागत है, 1000 से अधिक की खरीद पर शिपिंग फ्री एवं दुर्लभ साहित्य के लिए हमारी www.rishimission.org पर जाएँ अधिक जानकारी के लिए 9314394421 पर संपर्क करें
 

Rishi Mission is a Non Profitable Organization In India

Rishi Mission is a Non Profitable Organization In India

Vyaakaran Mahaabhaashyam 1-2 व्याकरण महाभाष्यम् 1-2

1,500.00

इह खलु लोकव्यवहारनिर्वहणार्थं भाषैव जुषते प्रधानभावम्। अन्तरेण भाषां लोका न प्रभवन्ति नैजमाशयं प्रकाशयितुम् । अप्रकाशयन्तश्चाशयं कथमिव ते पारयेयुः किञ्चिदनुष्ठातुम् । किञ्चिदनुष्ठातुमशक्नुवतां तेषां कृते सकलं जगदेवान्धकारमयम्भवेत्। अतएव स्पष्टमाचष्ट तत्रभवान् आचार्यप्रवरो दण्डिमहाभाग:

इदमन्धतमः कृत्स्नं जायेत भुवनत्रयम्।

यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ।। इति ।

भाषयापि तया पुनः सुसंस्कृतया भवितव्यम् परत्राशयं सङ्क्रमयितुम् । सुसंस्कृता भाषा च शब्दसाधुत्वमपेक्षते। साधुशब्दा हि प्रयुज्यमाना यथार्थमर्थमर्पयन्ति नासाधुशब्दाः । साधुशब्दप्रयोगे तु व्याकरणाध्ययनं हि प्रधानं प्रयोजकम्। न हि व्याकरणज्ञानरहितः साधुशब्दान् प्रयोक्तुं क्षमः। उक्तञ्च रामायणे

नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम्। बहु व्याहरताऽनेन न किञ्चिदपभाषितम् ॥

इत्यनेन हनुमतो वाग्व्यापारेण तस्य व्याकरणपारङ्गतत्वं ध्वनितं भवति। तदेवं व्याकरणच्युतिपरिहाराय व्याकरणस्याध्ययनं नितरामावश्यकम्। नाऽवैय्याकरणः साधुशब्दप्रयोगे क्षम:, पद्यमिदमित्यपि च सूचयति। आलङ्कारिका अपि च्युतिसंस्कारत्वाख्यं काव्यदोषमाचक्षाणास्तत्परिहाराय व्याकरणाध्ययनस्यावश्यकत्वमपूपुषन्। आचार्यो वेङ्कटाध्वरोऽपि अमुमेवार्थं विशदयति स्वकीये पद्ये निम्नाङ्किते

अस्वीकृतव्याकरणौषधानामपाटवं वाचि सुगाढमास्ते। कस्मिंश्चिदुक्ते तु पदं कथञ्चित् स्वैरं वपुः स्विद्यति वेपते च।! तदित्थं व्याकरणस्य परममहत्त्वमुपपादितमाचार्यैरिति।

व्याकरणस्य च पुनः प्रकृतिप्रत्ययाद्यनुशासनेन पदस्वरूपनिर्णयाय तदर्थनिर्धारणाय च परमोपयोगः। न हि व्याकरणमन्तरा पदपदार्थावबोधः सम्यक् शक्यते सम्भवितुम् । व्याकरणस्य प्रयोजनजातमुद्दिश्य आचार्यो वररुचिरप्याह वार्त्तिकमुखेन – ‘रक्षोहागमलघ्वसन्देहाः प्रयोजनम्’ इति। तान्येतानि प्रयोजनान्तराण्यपि भगवत्पतञ्जलिमुनिपादैः प्रपञ्चितानि महाभाष्ये पस्पशाह्निके। ‘रक्षार्थं वेदानामध्येयम् व्याकरणम्। लोपागमवर्णविकारज्ञो हि सम्यग्वेदान् परिपालयिष्यति वेदार्थञ्चाध्यवस्यति। ऊहः खल्वपि – न सर्वैर्लिङ्गैर्न च सर्वाभिर्विभक्तिभिर्वेदमन्त्रा निगदिता: ते चावश्यं यज्ञगतेन विपरिणमयितव्याः | तान्नावैय्याकरणः शक्नोति यथायथं विपरिणमयितुम् । तस्मादध्येयं व्याकरणम्।’ तत्र रक्षोहादीनि तु प्रमुखानि प्रयोजनानि, आनुषङ्गिकानि चेतराणि । एवं बहूनि व्याकरणस्य प्रयोजनानि प्रदर्शितानि विशेषावगतिकुतूहलिभिस्तु तानि तत्रैवानुसन्धेयानि

(In Stock)

Sold By : The Rishi Mission Trust Categories: ,
Weight 2000 g
Dimensions 22 × 14 × 9 cm

Reviews

There are no reviews yet.

Be the first to review “Vyaakaran Mahaabhaashyam 1-2 व्याकरण महाभाष्यम् 1-2”

Your email address will not be published. Required fields are marked *